I hope Don has a logo file? Project description Choose a text from the list Meet Litgloss participants Help
Main text Read some basic information For further reading
  "Meghdoot" by Kalidas
annotated by McComas and prepared and presented by Aditya Sachan

मेघदूत

खण्ड २

विद्युत्वन्तं ललितवनिता: सेन्द्रचापं सचित्रा: सङ्गीताय प्रहतमुरजा: स्निग्धगम्भीरघोषम् ।
अन्तस्तोयं मणिमायभुवस्तुङ्गमभ्रंलिहाग्रा: प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषै: ॥१॥

हस्ते लीलाकमलमलके बालकुन्दानुविद्वं नीता लोध्रप्रसवरजसा पाण्दुतामानने श्री: ।
चूडापाशे नवकुरबकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥२॥

यत्रोन्मत्तभ्रमरमुखरा: पादपा नित्यपुष्पा हंसश्रेणीरचितरशना नित्यपह्मा नलिन्य: ।
केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा नित्यज्योत्स्ना: प्रतिहततमोवृत्तिरम्या: प्रदोषा: ॥३॥

आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै: नान्यस्ताप: कुसुमशरजादिष्टसंयोगसाध्यात् ।
नाप्यस्मात्प्रणयकलहाद्विप्रयोगपपत्ति: वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥४॥

यस्यां यक्षा: सितमणिमयान्येत्य हर्म्यस्थलानि ज्योतिस्छायाकुसुमरचितान्युत्तमस्त्रीसहाया: ।
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वग्दम्भीरध्वनिषु शनकै: पुष्करेष्वाहतेषु ॥५॥

मन्दाकिन्या: सलिलशिशिरै: सेव्यमाना मरुभ्दि: मन्दारानामनुतटरुहां छायया वारितोष्णा: ।
अन्वेष्टव्यै: कनकसिकतमुष्टिनिक्षेपगूढै: संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्या: ॥६॥

नीवीबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणां क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
अर्चिष्टुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेराच्चूर्णमुष्टि: ॥७॥

नेत्रा नीता: सततगतिना यद्विमानाग्रभूमी: आलेख्यानां नवजलकणैर्दोषमुत्पाद्य सघ: ।
शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालमार्गै: धूमोग्दारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥८॥

यत्र स्त्रीनां प्रियतमभुजालिङ्गनोच्छ्वासितानां अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बा: ।
त्वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ता: ॥९॥

अक्षय्यान्तर्भवननिधय: प्रत्यहं रक्तकण्ठै: उग्दायभ्दिर्धनपतियश: किंनरैर्यत्र साधम् ।
वैभ्राजाख्यं विबुधवनितावारमुखासहाया बद्वालापा बहिरुपवनं कामिनो निर्विशन्ति ॥१०॥

गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पै: पत्रच्छेदै: कनककमलै: कर्णविभ्रशिभिश्च ।
मुक्ताजालै: स्तनपरिसरश्छिन्नसूत्रैश्च हारै: नैशो मार्ग: सवितुरुदये सूच्यते कामिनीनाम् ॥११॥

वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोभ्देदं सह किसलयैर्भूषणानां विकल्पान् ।
लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम् एक: सूते सकलमबलामण्डनं कल्पवृक्ष: ॥१२॥

पत्त्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहा: शैलोदग्रास्त्वमिव करिणो वृष्टिमन्त: प्रभेदात् ।
योधाग्रण्य: प्रतिदशमुखं संयुगे तस्थिवांस: प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कै: ॥१३॥

मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं प्रायश्चापं न वहति भयान् मन्मथ: षट्पदज्यम् ।
सभ्रूभङ्गप्रहितनयनै: कामिलक्ष्येष्वमोघे: तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्वे: ॥१४॥

तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।
यस्योपान्ते कृतकतनय: कान्तय वर्धितो मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्ष: ॥१५॥

वापि चास्मिन् मरकतशिलबद्वसोपानमार्गा हैमैश्छन्ना विकचकमलै: स्निग्धवैदूर्यनालै: ।
यस्यास्तोये कृतवसातयो मानसं संनिकृष्टं न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसा: ॥१६॥

तस्यास्तीरे रचितशिखर: पेशलैरिन्रनीलै: क्रीडाशैल: कनककदलीवेष्टनप्रेक्षणीय: ।
मग्देहिन्या: प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥१७॥

रक्ताशोलश्चकिसलय: केसरश्चात्र कान्त: प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य ।
एक: सख्यास्त्व सह मया वामपादाभिलाषी काङ्क्षत्यन्यो वदनमदिरां दोहदच्छह्मनास्या: ॥१८॥

तन्मध्ये च स्फटिकफलका काञ्ची वासयष्टि: मूले बद्वा मणिभिरनतिप्रौढवंशप्रकाशै: ।
तालै: शिञ्जावलयसुभगैर्नर्तित: कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठ: सुहृद् व: ॥१९॥

एभि: साधो हृदयनिहितैर्लक्षणैर्लयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपह्मो च दृष्ट्वा ।
क्षामच्छायं भवनमधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥२०॥

गत्वा सद्य: कलभतनुतां शीघ्रसंपातहेतो: क्रीडाशैले प्रथमकथिते रम्यसाणौ निषण्ण: ।
अर्हयन्तर्भवनपतितां कर्तुमल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥२१॥

तन्वी श्यामा शिखरदशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभि: ।
श्रोणीभारदलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद् युवतिविषये सृष्टिराद्येव धातु: ॥२२॥

तां जानीथा: परिमितकथां जीवितं मे द्वितीय दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठा गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पह्मिनीं वान्यरूपाम् ॥२३॥

नूनं तस्या: प्रबलरुदितोच्छूननेत्रं प्रियाया नि:ष्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वाद् इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥२४॥

आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां कच्चित् भर्तु: स्मरसि रसिके त्वं हि तस्य प्रियेति ॥२५॥

उत्सङ्गे वा मलिनवनसे सोम्य निक्षिप्य वीणां मग्दोत्राङ्कं विरचितपदं गेयमुग्दातुकामा ।
तन्त्रीमार्द्रां नयनसलिलै: सारयित्वा कथं चिद् भूयो भूय: स्वयमपि कृतां मूर्छनां विस्मरन्ती ॥२६॥

शेषान् मासान् विरहदिवसप्रस्थापितस्यावधेर्वा वियन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पै: ।
संयोगं मत्सङ्गं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदा: ॥२७॥

सव्यापारामहनि न तथा पीडयेन्मद्वियोग: शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
मत्संदेशै: सुखयितुमलं पश्य साध्वीं निशीथे तामुन्निद्रामवनिशयनां सौधवातायनस्थ: ॥२८॥

आघिक्षामां विरहशयने संनिषण्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशो: ।
नीता रात्री: क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥२९॥

पादानिन्दोरमृतशिशिरान् जालमार्गप्रविष्टान् पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव ।
चक्षु: खेदात् सलिलगुरुभि: पक्ष्मभिश्छादयन्तीं साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्वां न सुप्ताम् ॥३०॥

नि:श्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्वस्नानात् परुषमलकं नूनमागण्डलम्बम् ।
मत्संभोग: कथमुपनयेत् स्वाप्नजोऽपीति निद्राम् आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्वावकाशाम् ॥३१॥

आद्ये बद्वा विरहदिवसे या शिखा दाम् हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।
स्पर्शद्विष्टामयमितनखेनासकृत् सारयन्तीं गण्डाभोगात् कठिनविषमामेकवेणीं करेण ॥३२॥

सा संन्यस्ताभरणमबला पेशलं धारयन्ती शय्योत्सङ्गे निहितमसकृद् दु:खदु:खेन गात्रम् ।
त्वामप्यस्त्रं नवजलमयं मोचयिष्यत्यवश्यं प्राय: सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥३३॥

जाने सख्यास्तव मयि मन: संभ्र्तस्नेहमस्माद् इत्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगंमन्यभाव: करोति प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत् ॥३४

रुद्वापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्योदेशादपि च मधुनो विष्मृतभ्रूविलासम् ।
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥३५॥

वामश्चास्या: कररुहपदैर्मुच्यमानो मदीयै: मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ।
संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरु: सरसकदलीस्तम्भगौश्चलत्वम् ॥३६॥

तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।
मा भूदस्या: प्रणयिनि मयि स्वप्नलब्धे कथं चित् सद्य: कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥३७॥

तामुत्थाप्यस्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।
विद्युग्दर्भ: स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरस्तनितवचनैर्मानिनीं प्रक्रमेथा: ॥३८॥

भर्तुर्मित्रं प्रियमविधवे विद्वि मामम्बुवाहं तत्संदेशैहृदयनिहितैरागतं त्वत्समीपम् ।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥३९॥

इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभव्य चैव ।
श्रौष्यत्यस्मात् परमवहिता सौम्य सीमनिनीनां कान्तोदन्त: सुहृदुपनत: सङ्गमात्किंचिदून: ॥४०॥

तामायुष्मन् मम च वचनादात्मन: चोपकर्तुं ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थ: ।
अव्यापन्न: कुशलमबले पृच्छति त्वां वियुक्त: पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥४१॥

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्त्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्वमार्ग: ॥४२॥

शब्दाख्येयं यदपि किल ते य: सखिनां पुरस्तात् कर्णे लोल: कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्त: श्रवणविषयं लोचनाभ्यामदृष्ट: त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥४३॥

श्यामास्वाङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्चायां शशिनि शिखिनां बर्हभारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्मिन्क्वचिदपि न ते चण्दि साद्र्श्यमस्ति ॥४४॥

त्वामालिख्य प्रणयकुपिता धातुरागै: शिलायां आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्त्रैस्तावन् मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नापि न सहते सङ्गमं नौ कृतान्त: ॥४५॥

मामाकाशप्राणीहितभुजं निर्दयाश्लेषहेतो: लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशा: पतन्ति ॥४६॥

भित्त्वा सद्य: किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्त्रुतिसुरभयो दक्षिणेन प्रवृत्ता: ।
आलिङ्यन्ते गुंणवति मया ते त्षाराद्रिवाता: पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥४७॥

संक्षिप्येत क्षण इव कथं दीर्घयाम त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभि: कृतमशरणं त्वद्वियोगव्यथाभि: ॥४८॥

नन्वात्मानं बहु विगणयन्नात्मनैवावलम्बै तत् कल्याणि त्वमपि नितरां मा गम: कातरत्वम् ।
कस्यात्यन्तं सुखमुपनतं दु:खमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥४९॥

शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ शेषान्मासान् गमय चतुरो लोचने मीलयित्वा ।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्याव: परिणतशरच्चन्द्रिकासु क्षपासु ॥५०॥

भूयश्चाह त्वपमि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदति सस्वनं विप्रबुद्वा ।
सान्तर्हासं कथितमसकृत् पृच्छतश्च त्वया मे द्र्ष्ट: स्वप्ने कितव रमयन् कामपि त्वं मयेति ॥५१॥

एतस्मान् मां कुशलिनमभिज्ञानदानाद् विदित्वा मा कौलीनाच्चकितनयने मय्यविश्वासिनी भू: ।
स्नेहानाहु: किमपि विरहे ध्वंसिनस्ते त्वभोगाद् इष्टे वस्तुन्युपचितरसा: प्रेमराशीभवन्ति ॥५२॥

आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते शैलादाशु त्रिनयन्वृषोत्खातकूटान्निवृत्त: ।
साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि प्रात: कुन्दप्रसवशिथिलं जीवितं धारयेथा: ॥५३॥

sd कच्चित् सोम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।
sd नि:शब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्य: प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥५४॥

sdएतत् कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे सौहर्दाद् वा विधुर इति वा मय्यनुक्रोशबुद्वया ।
sdइष्टान् देशान् विचर प्रावृषा संभृतश्री: मा भूदेवं क्षणमपि च ते विद्युता विप्रयोग: ॥५५॥



खंड १