Project description Choose a text from the list Meet LiTgloss participants Help
Main text Read some basic information For further reading
  "Meghdoot" by Kalidas
annotated by McComas and prepared and presented by Aditya Sachan

खंड १

कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्त: शापेनास्तड्ग्मितहिमा वर्षभोग्येण भर्तु: ।
यक्षश्चक्रे जनकतनयास्त्रानपुण्योदकेषु स्त्रिग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥१॥

तसिमन्नद्रौ कतिचिदबलाविप्रयुक्त: स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठ: ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥२॥

तस्य स्थित्वा कथमपि पुर: कौतुकाधानहेतो: अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथाव्रत्ति चेत: कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥३॥

प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रव्रत्तिम् ।
स प्रत्यग्रै: कुतजकुसुमै: कल्पितार्घाय तस्मै प्रीत: प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥४॥

धूमज्योति: सलिलमरुतां संनिपात: क्व मेघ: संदेशार्था: क्व पतुकरणै: प्राणिभि: प्रापणीया: ।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामआर्ता हि प्रक्रतिक्रपणाश्चेतनाचेतनेषु ॥५॥

जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रक्रतिपुरुषं कामरूपं मघोन: ।
तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं याच्ञा मोघा वरमघिगुणे नाधमे लब्धकामा ॥६॥

संतप्तानां त्वमसि शरणं तत् पयोद प्रियाया: संदेशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानसिथतहरशिरश्चन्द्रिकाधौतहर्म्या ॥७॥

त्वामारूढं पवनपदवीमुग्द्रहीतालकान्ता: प्रेक्षिष्यन्ते पथिकवनिता: प्रत्ययादाश्वसन्त्य: ।
क: संनद्वे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो य: पराधीनव्रत्ति: ॥८॥

तां चावश्यं दिवसगणनातत्परामेकपत्नीं अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रात्रजायाम् ।
आशाबन्ध: कुसुमसदृशं प्रायशो ह्यग्ङनानां सघ:पाति प्रणयि हृदयं विप्रयोगे रूणद्वि ॥९॥

मन्दं मन्दं नुदति पवनश्चानुकूल् यथा त्वां वानश्चायं नदति मधुरं चातकस्ते सगन्ध: ।
गर्भाधानक्षणपरिचयान्नूनमाबद्वमाला: सेविष्यन्ते नयनसुभगं खे भवन्तं बलाका: ॥१०॥

कर्तुं यच्च प्रभवति महिमुच्छिलीन्ध्रामवन्ध्यां तच्छ्रूत्वा ते श्रवणसुभगं गर्जितं मानसोत्का: ।
आ कैलासाद्विसकिसलयच्छेदपाथेयवन्त: संपत्स्यन्ते नभसि भवतो राजहंसा: सहाया: ॥११॥

आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं वन्धै: पुंसां रघुपतिपदैरङ्कितं मेखलासु ।
काले काले भवति भवतो यस्य संयोगमेत्य स्त्रेहव्यक्तिश्चिरविरहजं मुच्ञतो वाष्पमुष्णम् ॥१२॥

मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् ।
खिन्न: खिन्न: शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीण: क्षीण: परिलघु पय: स्त्रोतसां चोपभुज्य ॥१३॥

अद्रे: शृग्ङं हरति पवन: किं स्विदित्युन्मुखिभिर्दृष्टोत्साहश्चकितचकितं मुग्धसिद्वाग्ङनाभि: ।
स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुख: खं दिङ्नागानां पथि परिहरन् स्थुलहस्तावलेपान् ॥१४॥

रन्तच्छायाव्यतिकर इव प्रेक्ष्यमेतत् पुरस्ताद् वल्मीकाग्रात् प्रभवति धनुष्खण्डमाखण्डलस्य ।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरूचिना गोपवेशस्य विष्णो: ॥१५॥

त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञै: प्रीतिस्त्रिग्धैर्जनपदवधूलोचनै: पीयमान: ।
सघ:सीरोत्कषणसुरभि क्षेत्रमारूह्य मालं किंचित्पश्चाद्व्व्रज लघुगतिर्भूय एवोत्तरेण ॥१६॥

त्वामासारप्रशमितवनोपप्लवं साधु मूर्न्धा वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूट: ।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुख: किं पुनर्यस्तथोच्चै: ॥१७॥

छन्नोपान्त: परिणतफलद्योतिभि: काननाम्रै: त्वय्यारूढै शिखरमचल: स्त्रिग्धवेणीसवर्णे ।
नूनं यास्यत्यमरमिथुनप्रेक्षनीयामवस्थां मध्ये श्याम: स्तन इव भुव: शेषविस्तारपाण्डु: ॥१८॥

स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोन्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्ण: ।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमग्ङे गजस्य ॥१९॥

तस्यास्तिक्त्तैर्वनगजमदैर्वासितं वान्तवृष्टि: जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छे: ।
अन्त:सारं घन तुलयितुं नानिल: शक्ष्यति त्वां रिक्त: सर्वो भवति हि लघु: पूर्णता गौरवाय ॥२०॥

नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढै: आविर्भूतप्रथममुकुला: कन्दलीश्चानुकच्छम् ।
जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्या: सारग्ङास्ते जललवमुच: सूचयिष्यन्ति मार्गम् ॥२१॥

उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासो: कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
शक्लापाग्ङै: सजलनयनै: स्वागतीकृत्य केका: प्रत्युद्यात: कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥२२॥

अम्भोबिन्दुग्रहणचतुरांश्चातकान् वीक्षमाणा: श्रेणीभूता: परिगणनया निर्दिशन्तो बलाका: ।
त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्वा: सोत्कम्पानि प्रियसहचरीसंभ्रमालिग्ङितानि ॥२३॥

पान्डुच्छायोपवनवृतय: केतकै: सूचिभिन्नै: नीडरन्भैर्गृहबलिभुजामाकुलग्रामचैत्या: ।
त्वय्यासन्नै परिणतफलश्यामजम्बूवनान्ता: संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णा: ॥२४॥

तेषं दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सघ: फलमविकलं कामुकत्वस्य लब्धा ।
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात् सभ्रूभग्ङं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥१५॥

नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो: त्वत्संपर्कात् पुलकितमिव प्रौढपुष्पै: कदम्बै: ।
य: पण्यस्त्रीरतिपरिमलोग्दारिभिर्नागराणां उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥२६॥

विश्रान्त: सन् व्रज वननदीतीरजातानि सिञ्चन्न उद्यानानां नवजलकणैर्यूथिकाजालकानि ।
गण्डस्वेदापनयनरूजाक्लान्तकर्णोत्पलानां छायादानात् क्षणपरिचित: पुह्पलावीमुखानाम् ॥२७॥

वक्र: पन्था यदपि भवत: प्रस्थितस्योत्तराशां सौधोत्सग्ङप्रणयविमुखो मा स्म भूरूज्जयिन्या: ।
विद्युद्दमस्फुरितचकितैस्तत्र पौराग्ङनानां लोलापाग्ङैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥२८॥

विचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणाया: संसर्पन्त्या: स्खलितसुभगं दर्शितावर्तनाभे: ।
निर्विन्ध्याया: पथि भव रसाभ्यन्तर: सन्निपत्य स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥२९॥

वेणीभूतप्रतनुसलिलासावतीतस्य सिन्धु: पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णै: ।
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्य: ॥३०॥

प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्वान् पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषै: पुण्यैर्हृतमिव दिव: कान्तिमत् खण्डमेकम् ॥३१॥

दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषाय: ।
यत्र स्त्रीणां हरति सुरतग्लानिमग्ङानुकूल: शिप्रावात: प्रियतम इव प्रार्थनाचाटुकार: ॥३२॥

हारांस्तारांस्तरलगुटिकान् कोटिश: शङ्खशुक्ती: शष्पश्यामान् मरकतमणीनुन्मयूखप्ररोहान् ।
दृष्ट्वा यस्यां विपणिरचितान् विद्रुमाणां च भङ्गान् संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषा: ॥३३॥

प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे हैमं तालद्रुमनवमभूदत्र तस्यैव राज्ञ: ।
अत्रोभ्द्रान्त: किल नलगिरि: स्तम्भमुत्पाटच्य दर्पाद् इत्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञा: ॥३४॥

जालोग्दीर्णौरूपचितवपु: केशसंकारधूपै: बन्ध्रुप्रीत्या भवनशिखिभिर्दत्तनृत्त्योपहार: ।
हर्म्येष्वस्या: कुसुमसुरभिष्वध्वखेदं नयेथा लक्ष्मीं पश्यंल्ललितवनितापादरागाङ्कितेषु ॥३५॥

भर्तु: कण्ठच्छविरिति गणै: सादरं वीक्ष्यमाण: पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य ।
धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या: तोयक्रीडानिरतयुवतिस्त्रानतिक्त्तैर्मरुभ्दि: ॥३६॥

अप्यन्यस्मिञ् जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदत्येति भानु: ।
कुर्वन् संध्याबलिपटहतां शूलिन: श्लाघनीयां आमन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥३७॥

पादन्यासै: क्वणितरशनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरै: क्लान्तहस्ता: ।
वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥३८॥

पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीन: सांध्यं तेज: प्रतिनवजपापुष्परक्त्तं दधान: ।
नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥३९॥

गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्वालोके नरपतिपथे सूचिभेद्यैस्तमोभि: ।
सौदामिन्या कनकनिकषस्निग्ध्या दर्शयोर्वीं तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ता: ॥४०॥

तां कस्यां चिद् भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्र: ।
दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं मन्दायन्ते न खलु सु:ऋदामभ्युपेतार्थकृत्या: ॥४१॥

तस्मिन् काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।
प्रालेयास्त्रं कमलवदनात् सोऽपि हर्तुं नलिन्या: प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूय: ॥४२॥

गम्भीराया: पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
तस्मात् तस्या: कुमुदविशदान्यर्हसि त्वं न धैर्यान् मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥४३॥

तस्या: किं चित् करधृतमिव प्राप्तवानीरशाखं नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादो विवृतजघनां को विहातुं समर्थ: ॥४४॥

त्वन्निष्यन्दोच्छ्वसितवसुधागन्ध्संपर्करम्य: स्त्रोतोरन्ध्रध्वनितसुभगं दन्तिभि: पीयमान्: ।
नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते शीतो वायु: परिणमयिता काननोदुम्बराणाम् ॥४५॥

तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारै: स्नपयतु भवान् व्योमगङ्गाजलार्द्रै: ।
रक्षाहेतोर्नवशशिभृता वासवीनां चमूनां अत्यादित्यं हुतवहमुखे संभ्र्तं तद् धि तेज: ॥४६॥

ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रेम्णा कुवलयपदप्रापि कर्णै करोति ।
धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथा: ॥४७॥

आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा सिद्वद्वन्द्वैर्जलकणभयाद्वीणीभिर्मुक्तमार्ग: ।
व्यालम्बेथा: सुरभितनयालम्भजां मानयिष्यन् स्त्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥४८॥

त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्या: सिन्धो: पृथुमपि तनुं दूरभावात् प्रवाहम् ।
प्रेक्षिश्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी: एकं मुक्तागुणामिव भुव: स्थूलमध्येन्द्रनीलम् ॥४९॥

तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशरप्रभाणाम् ।
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥५०॥

ब्रह्मावर्तं जनपदमधश्छायया गाहमान: क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथा: ।
राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥५१॥

हित्वा हालामभिमतरसां रेवतीलोचनङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली या: सिषेवे ।
कृत्वा तासामभिगममपां सौम्य सारस्वतीनां अन्त:शुद्वस्त्वमपि भविता वर्णमात्रेण कृष्ण: ॥५२॥

तस्माद् गच्छेरनुकनखलं शैलराजावतीर्णां जह्नो: कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।
गौरीवत्र्कभ्रुकुटिरचनां या विहस्येव फेनै: शंभो: केशग्रहणमक्रोदिन्दुलग्नोर्मिहस्ता ॥५३॥

तस्या: पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भ: ।
संसर्पन्त्या सपदि भवत: स्त्रोतसि चाययासौ स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥५४॥

आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां तस्या एव प्रभवमचलं प्राप्य गौरं तुषारै: ।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्ण: शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥५५॥

>तं चेद् वायौ सरति सरलस्कन्धसङ्घट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्नि: ।
अर्हस्येनं शमयितुमलं वारिधारासहस्त्रै: आपन्नार्तिप्रशमनफला: संपदो ह्युत्तमानाम् ॥५६॥

ये संरम्भोत्पतनरभसा: स्वाङ्गभङ्गाय तस्मिन् मुक्ताध्वान सपदि शरभा लङ्घयेयुर्भवन्तम् ।
तान् कुर्वीथास्तुमुलकरकावृष्टिहासावकीर्णान् के वा न स्यु: परिभवपदं निष्फलारम्भयन्ता: ॥५७॥

तत्र व्यक्तं दृषदि चरनन्यासमर्धेन्दुमौले: शश्वत् सिद्वैरुपहृतबलिं भक्तिनम्र: परीया: ।
यस्मिन् दृष्टे करणविगमादूर्ध्वमुद्वूतपापा: संकल्पन्ते स्थिरगणपदप्राप्तये श्रदृधाना: ॥५८॥

शब्दायन्ते मधुरमनिलै: कीचका: पूर्यमाणा: संसक्ताभिस्त्रिपुरविजयो गीयते किंनरिभि: ।
निर्ह्रादी ते मूरज इव चेत् कन्दरेषु ध्वनि: स्यात् सङ्गीतार्थौ ननु पशुपतेस्तत्र भावी समग्र: ॥५९॥

प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान् हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् ।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी श्याम् पादो बलिनियमनाभ्युद्यतस्येव विष्णो: ॥६०॥

गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधे: कैलासस्य त्रिदशवनितादर्पणस्यातिथि: स्या: ।
शृङ्गोच्छ्रायै: कुमुदविशदैर्यौ वितत्य स्थित: खं राशीभूत: प्रतिदिनमिव त्र्यम्बकस्याट्टहास: ॥६१॥

उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनामे सद्य:कृत्तद्विरददशनच्छेदगौरस्य तस्य ।
शोभामद्रे: स्तिमितनयनप्रेक्षणीयां भवित्रीं अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥६२॥

हित्वा तस्मिन्भुजगवलयं शंभुना दत्तहस्ता क्रीडाशैले यदि च विचरेत् पादचारेण गौरी ।
भङ्गीभक्त्‌या विरचितवपु: स्तम्भितान्तर्जलौघ: सोपानत्वं कुरु मणितटाहणायाग्रयायी ॥६३॥

तत्रावश्यं वलयकुलिशोद्वट्टनोग्दीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।
ताभ्यो मोक्षस्तव यदि सखे धर्मलब्धस्य न स्यात् क्रीडालोला: श्रवणपरुषैर्गर्जितैर्भाययेस्ता: ॥६४॥

हेमाम्भोजप्रसवि सलिलं मानसस्याददान: कुर्वन् कामात् क्षणमुखपटप्रीतिमैरावतस्य ।
धुन्वन्कल्पद्रुमकिसलयान्यंशुकानीव वातै: नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥६५॥

तस्योत्सङ्गे प्रणयिन इव स्त्रस्तगङ्गादुकूलां न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।
या व: काले वहति सलिलोग्दारमुच्चैर्विमाना मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥६६॥


खण्ड २